Durga Saptashati – दशमोऽध्यायः 21
॥श्रीदुर्गासप्तशती – दशमोऽध्यायः॥ शुम्भ-वध ॥ध्यानम्॥ ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि- नेत्रां धनुश्शरयुताङ्कुशपाशशूलम्। रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां कामेश्वरीं हृदि भजामि धृतेन्दुलेखाम्॥ “ॐ” ऋषिरुवाच॥१॥ निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम्। हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः॥२॥ बलावलेपाद्दुष्टे* त्वं मा दुर्गे गर्वमावह। अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी॥३॥ देव्युवाच॥४॥ एकैवाहं जगत्यत्र द्वितीया का ममापरा। पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः*॥५॥ ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम्। तस्या … Read more